मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् २

संहिता

अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्य॑ः ।
पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ ।
पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

अयुजः असहायः असमः असदृशोन्यैर्नृभिर्देवैः एकोमुख्यः अयास्यः उपक्षपयितुमशक्यः पूर्वीः कृष्टीः पूर्वतन्यः प्रजाः अतिप्रववृधे अति प्रवर्धते । किञ्च विश्वा सर्वाणि जातानि इदानीमुत्पन्नानि ओजसा बलेनातिप्रवावृधे भद्राइन्द्रस्यरातयः । अथवा यमृषिरयुजोसहायोन्यैरसदृशएकएव सन् पूर्वीः प्रजाः जातानि सर्वाण्यप्यतिक्रम्य वर्धते । शिष्टं समानम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०