मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ३

संहिता

अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।
प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

अहि॑तेन । चि॒त् । अर्व॑ता । जी॒रऽदा॑नुः । सि॒षा॒स॒ति॒ ।
प्र॒ऽवाच्य॑म् । इ॒न्द्र॒ । तत् । तव॑ । वी॒र्या॑णि । क॒रि॒ष्य॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

अयं जीरदानुः क्षिप्रप्रदानइन्द्रः अहितेनायोजितेनाप्रेरितेनचिदर्वतारणवताश्वेन सिषासति संभक्तुमिच्छति तत् तस्माद्धे इन्द्र वीर्याणि सामर्थ्यानि करिष्यतस्तव महत्त्वं प्रवाच्यं स्तुत्यमित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०