मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ६

संहिता

अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।
जु॒ष्ट्वी दक्ष॑स्य सो॒मिन॒ः सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

अव॑ । च॒ष्टे॒ । ऋची॑षमः । अ॒व॒तान्ऽइ॑व । मानु॑षः ।
जु॒ष्ट्वी । दक्ष॑स्य । सो॒मिनः॑ । सखा॑यम् । कृ॒णु॒ते॒ । युज॑म् । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

अयमिन्द्रः ऋचीषमो ऋचा स्तुत्या समः तथापरिच्छिन्नः सन्नवचष्टे पश्यति अनुग्रहेणास्मान् । तत्र दृष्टान्तः-मानुषो मनुष्यः अवतानवटान्कूपादि- प्रदेशानिव दृष्ट्वाच जुष्ट्वी प्रीतोयं दक्षप्रवृद्धस्य सोमिनो यजमानस्य युजं युज्यमात्मानं सखायं कृणुते करोति तस्याभिमतं साधयती- त्यर्थः । अथवा तृषितोमनुष्यो जलपूर्णानवटानिव स्तुतः सन्पश्यति सोमं पातुम् । पश्चादवेक्षितं तं युज्यमानं सोमं जुष्ट्वी सेवित्वा दक्षस्य सोमिनः सखायं कृणुते कुरुते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४०