मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६२, ऋक् ११

संहिता

अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ ।
अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥

पदपाठः

अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ ।
अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

सायणभाष्यम्

हे वृत्रहन्निन्द्र त्वञ्चाहञ्च संयुज्याव संगतौ भवाव । कियदवधीति उच्यते-सनिभ्य आ यावता कालेन धनानि लभ्यन्ते तावत्कालम् । नौ संगतयो- श्चावयोः हे अद्रिवो वज्रवन्निन्द्र हेशूर अरातीवा चित् अदानोपि जनस्त्वद्दत्तधनस्य अनुमंसते अनुमतिं करोति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४१