मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् १२

संहिता

अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑ः ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥

पदपाठः

अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।
यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥

सायणभाष्यम्

अस्मे अस्मान् रुद्राः मेहना उदकसेचनयुक्ताः पर्वतासो मेघाश्च वृत्रहत्ये वृत्रहननसाधने भरहूतौ संग्रामाह्वाने सजोषाःअस्मत्समानप्रीतिश्च यइन्द्रः शंसते शस्त्रंपठते स्तुवते स्तोत्रं कुर्वतेच यजमानाय पज्रोबलवान्वेगवान् वा धायि गच्छति सइन्द्रश्च इमेइन्द्रज्येष्ठा देवाअस्मानवन्तु रक्षंतु । अस्मानितिपूरणः । अथवैवंयोज्यं रुद्रा रुद्रपुत्रा मेहना सेचनेनयुक्ताः पर्वता पर्वतसदृशाः पूरणवन्तः प्रीणनवन्तोवा । पर्वपुनःपृणातेः प्रीणातेर्वेति- निरुक्तम् । वृत्रहत्येभरहूतौ सजोषाः सजोषसः सहायभूता मरुतोदेवा इन्द्रज्येष्ठाः उक्तलक्षणइन्द्रश्चास्मानवन्त्विति ॥ १२ ॥

उत्त्वामन्दन्त्विति द्वादशर्चं पञ्चमं सूक्तं प्रगाथस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमैन्द्रं उत्त्वेत्यनुक्रमणिका । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३