मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ११

संहिता

अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।
वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥

पदपाठः

अपा॑त् । इन्द्रः॑ । अपा॑त् । अ॒ग्निः । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।
वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः॑ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ॥

सायणभाष्यम्

इन्द्रोपादपिबत् सोममग्निरप्यपिबत् विश्वेदेवा अप्यमत्सत तृप्ता अभवन् सोमपानेन वरुणइत् वरुणोपीहास्मिन् यागगृहे क्षयत् निवसतु सोमपानार्थं निवसन्तं तं आपोप्यभ्यनूषत उदकान्यापनशीलाः स्तुतयोवा अभ्यस्तुवन् । किमिव वत्सं स्वीयं संशिश्वरीः संशिश्वर्यः संगच्छमाना गावइव । तायथा धावत्यो हंभारवं कुर्वन्ति तद्वत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः