मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् १५

संहिता

क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।
अ॒जां सू॒रिर्न धात॑वे ॥

पदपाठः

क॒र्ण॒ऽगृह्य॑ । म॒घऽवा॑ । शौ॒र॒ऽदे॒व्यः । व॒त्सम् । नः॒ । त्रि॒ऽभ्यः । आ । अ॒न॒य॒त् ।
अ॒जाम् । सू॒रिः । न । धात॑वे ॥

सायणभाष्यम्

अयं मघवेन्द्रस्त्रिभ्यो हिंसकेभ्यः सकाशात् शौरदेव्यः दीव्यन्ति क्रीडन्त इतिदेवा योद्धारः शूराश्च ते देवाश्च शूरदेवाः तेषां हितः शौरदेवं युद्धं तत्संबन्धिन्योगाः युद्धे शत्रून्हत्वा तत्संबन्धिन्यइत्यर्थः । ताः वत्संन । नेतिचार्थे वत्ससहिता अस्मभ्यं कर्णगृह्य कर्णेगृहीत्वा आनयदानयतु । सूरिर्न प्रेरकः स्वामीव धातवे पानायाजां यथा सआनयति कर्णेगृहीत्वा तद्वदिति ॥ १५ ॥

त्वंनोअग्नइति पञ्चदशर्चं द्वितीयं सूक्तं सुदीतिपुरुमीह्ळावृषी तयोरन्यतरोवा आदौ नवगायत्र्यः दशमीद्वादशीचतुर्दश्योबृहत्यः एकादशी- त्रयोदशीपञ्चदश्यः सतोबृहत्यः अग्निर्देवता । तथाचानुक्रान्तम्-त्वंनः सुदीति पुरुमीह्ळौ तयोर्वान्यतर आग्नेयंतु त्रिप्रगाथान्तमिति । प्रातरनुवाके आग्नेयेक्रतौ गायत्रे छन्दसि आश्विनशस्त्रे आदितोनवर्चः । तथाचसूत्रितम्-त्वंनो अग्नेमहोभिरिति नवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०