मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९१, ऋक् २

संहिता

अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।
इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥

पदपाठः

अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् ।
इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥

सायणभाष्यम्

सा शक्रमब्रवीत्-हेइन्द्र वीरको वीरः समर्थस्त्वं योसौ त्वं विचाकशत् काशृदीप्तौ । यङ्लुकि शतरि रूपं धातोर्ह्रस्वश्छान्दसः । अत्यर्थं दीप्यमानः सन् गृहंगृहं यजमानगृहंप्रति सोमपानाय त्वमेषि गच्छसि । अतस्त्वमत्रापि जंभसुतं ममदन्तैरभिषुतमिमं सोमं पिब । कीदृशं धानावन्तं धाना- भृष्टयवास्तद्वन्तं करंभिणं सक्तुमन्तं अपूपवन्तं पुरोडाशादिसहितं उक्थिनं स्तोत्रादियुक्तमेतादृशं सोममत्रैव पिबेति । सा सोमेनसह धानादीनवे- दयत् स्तोत्रंचाकार्षिदित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४