मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ४

संहिता

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥

पदपाठः

यत् । अ॒द्य । कत् । च॒ । वृ॒त्र॒ऽह॒न् । उ॒त्ऽअगाः॑ । अ॒भि । सू॒र्य॒ ।
सर्व॑म् । तत् । इ॒न्द्र॒ । ते॒ । वशे॑ ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्यापामावरकस्य मेघस्य हन्तः हे सूर्य सूर्यात्मकेन्द्र अद्यास्मिन्दिने यत् कच्च यत्किंचित् पदार्थजातमभि अभिमुखीकृत्य उदगाः इण्गतौ उत्पूर्वः तस्य लुङि गादेशः । स्वतेजसा उद्गतः प्रादुर्भूतोसि तदा तत्सर्वं स्थावरजंगमात्मकं जगत् ते तव वशेभवति त्वदधीनं भवति । उदितेसूर्ये त्वदर्थं प्राक्कर्म कुर्वन्ति जुह्वतिच ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१