अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।
उ॒भे सु॑शिप्र॒ रोद॑सी ॥
अध॑ । ते॒ । अप्र॑तिऽस्कुतम् । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ।
उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । रोद॑सी॒ इति॑ ॥
/ हे सुशिप्र सुहनो शोभनशिरस्त्राणेन्द्र अधापिच देवी देव्यै । स्वतेजसा दीप्यमाने उभेरोदसी द्यावापृथिव्यौ अप्रतिष्कुतं स्कुइति सौत्रोधातुः स्तंभनेवर्तते शत्रुभिरप्रतिरोधनीयं ते त्वदीयं शुष्मं परबलशोषकं बलं सपर्यतः पूजयतः त्वदधीनेएव भवतः ॥ १२ ॥