मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १७

संहिता

अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
यत्सोमे॑सोम॒ आभ॑वः ॥

पदपाठः

अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत ।
यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥

सायणभाष्यम्

हे पुरुनामन् बहुविध शक्र वृत्रहादिनामोपेत । यद्वा बहुस्तुतिमन् नामयन्ति स्तुत्यं देवं वशं नयन्त्यनेनेति नाम स्तोत्रम् । अतएव पुरुष्टुत बहुभिर- भिष्टुतेन्द्र सोमेसोमे अस्मदीयेषु सोमेषु त्वं यद्यदा आभवः तेषां पानार्थं समन्तादभवः तदा वयमया अनया कीदृश्या गव्यया गाआत्मनइच्छन्त्या धिया अनया बुद्भ्या युक्ता भवेम सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४