मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २१

संहिता

अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।
प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥

पदपाठः

अ॒भि । सु । नः॒ । त्वम् । र॒यिम् । म॒न्द॒सा॒नः । स॒ह॒स्रिण॑म् ।
प्र॒ऽय॒न्ता । बो॒धि॒ । दा॒शुषे॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं मन्दसानः अस्माभिर्दत्तेन सोमेन मोदमानः सन् सहस्रिणं सहस्रसंख्याकं रयिं धनं नोस्मभ्यं सु सुष्ठु अभ्याभर । तदेवाह-त्वं दाशुषे हविर्दत्तवते यजमानाय प्रयन्ता धनादेः प्रदाता कर्मणोनियन्तावा भवानीति बोधि बुध्यस्व । बुधावगमने भौवादिकः लोटि छान्दसो विकरण- स्यलुक् हेर्धिः धित्वेधकारलोपश्छान्दसः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५