आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।
स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥
आ । ते॒ । दक्ष॑म् । वि । रो॒च॒ना । दध॑त् । रत्ना॑ । वि । दा॒शुषे॑ ।
स्तो॒तृऽभ्यः । इन्द्र॑म् । अ॒र्च॒त॒ ॥
ऋषिऋत्विग्यजमानान् प्रत्याह । हे यष्टः दाशुषे इन्द्राय हविर्दत्तवते ते तुभ्यं रोचना रोचनं दीप्यमानं दक्षं बलं आभिमुख्येन विदधत् इन्द्रोविद- धातु यद्वा रोचनमिति स्वर्गः देवतेजसा दीप्तं रोचननामानं लोकं विदधातु । तथा रत्ना रत्नानि च तुभ्यं करोतु । डुधाञ् धारणपोषणयोः । लेटि घोर्लोपोलेटिचेत्याकारलोपः अडागमः । हे स्तोतारः स्तोतृभ्यः इन्द्रविषयस्तोत्रकारिभ्योयुष्मभ्यंच बलरत्नादिकं इन्द्रः कुरुतां तस्मात्तमिन्द्रं यूयमर्चत हविर्भिः स्तुतिभिश्च पूजयत ॥ २६ ॥