मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् २

संहिता

त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।
वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं अभिभूः शत्रूणामभिभवितासि भवसि । किंच त्वं सूर्यमादित्यमरोचयः तेजोभिरदीपयः । किंच विश्वकर्मा विश्वस्य कर्तासि विश्वदेवः सर्वदेवश्चासि । तथाच यजुर्ब्राह्मणं-अग्निंवा अन्वन्यादेवता इन्द्रमन्वन्याइति । अतोमहान् सर्वाधिकोसि ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः