मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ५

संहिता

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥

पदपाठः

अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।
इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥

सायणभाष्यम्

हे सत्य सोमपाः सोमस्य पातरिन्द्र यस्त्वं उभे रोदसी द्यावापृथिव्यौ अभि बभूथ सामर्थ्येनाभिभवसि सत्वं सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य वृधोवर्धकोसि दिवः स्वर्गस्यापि पतिरीश्वरोसि ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः