मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १४

संहिता

प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।
बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥

पदपाठः

प्र॒ऽजाः । ह॒ । ति॒स्रः । अ॒ति॒ऽआय॑म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः॑ । वि॒वि॒श्रे॒ ।
बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव॑नेषु । अ॒न्तरिति॑ । पव॑मानः । ह॒रितः॑ । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

यास्तिस्रः प्रजाः अत्यायमीयुः अत्यायमायन् अन्यास्ताइमाः प्रजाः अर्कमर्चनीयमग्निं अभितोनिविविश्रे अभितोनिविष्टाः ततोनपराबभूवुः । भुवनेष्वन्तर्मध्ये बृहत् महानसावादित्यः प्रजापतिरित्येके तस्थौ प्रकाशयन्नतिष्ठत् हरितोदिशःपवमानोवायुराविवेश आविष्टः । हौ पूरणौ । तथाचैतस्यब्राह्मणं-प्रजाहतिस्रोअत्यायमीयुरिति यावैताइमाः प्रजास्तिस्रोअत्यायमायंस्तानीमानि वयांसि वंगावगधाश्चेररपादान्यन्या अर्कमभितोविविश्रइति ताइमाः प्रजा अर्कमभितोनिविष्टा इममेवाग्निं बृहद्धतस्थौ भुवनेष्वन्तरित्यदउ एवबृहद्भुवनेष्वन्तरसावादित्यः पवमानोहरित आविवेशेति वायुरेव पवमानो दिशोहरित आविष्टइति । वाजसनेयिनोप्यामनन्ति-सतपोतप्यत सप्रजाअसृजत ताअस्यप्रजाः सृष्टाः पराबभूवुः तानीमानिवयांसीत्युपक्रम्य प्रजाहतिस्रोअत्या यमीयुरिति याअमूः प्रजाअत्यायन् न्यन्याअर्कमभितोविविश्रइति अग्निर्वा- अर्कस्तमिमाः प्रजाअभितोनिविष्टास्ताइमाः पराभूता बृहद्धतस्थौभुवनेष्वन्तरिति प्रजापतिमेवैतदभ्यनूक्तं पवमानो हरितआविवेशेति दिशोवैहरितस्ता अयं पवमानआविष्टइति ॥ १४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः