मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४२, ऋक् ५

संहिता

अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।
सोमः॑ पुना॒नो अ॑र्षति ॥

पदपाठः

अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ ।
सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥

सायणभाष्यम्

अयं सोमः पुनानः पूयमानो विश्वानि वार्या वरणीयानि धनान्यभ्यर्षति तथा ऋतावृधो यज्ञवर्धकान् देवानभ्यर्षति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२