मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६०, ऋक् ३

संहिता

अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।
इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥

पदपाठः

अति॑ । वारा॑न् । पव॑मानः । अ॒सि॒स्य॒द॒त् । क॒लशा॑न् । अ॒भि । धा॒व॒ति॒ ।
इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् ॥

सायणभाष्यम्

पवमानः पूयमानः सोमो वारान् अवेः वालानत्यतिक्रम्यासिष्यदत्स्यंदते । अपिचेन्द्रस्य हार्दि हृदयमाविशन् द्रोणानभिधावत्यभिगच्छति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७