मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६५, ऋक् २२

संहिता

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
ये वा॒दः श॑र्य॒णाव॑ति ॥

पदपाठः

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।
ये । वा॒ । अ॒दः । श॒र्य॒णाऽव॑ति ॥

सायणभाष्यम्

एतदादिभ्यामृग्भ्यामिद्रार्थं सर्वत्र सोमाभिषवोस्तीत्याह । ये सोमासः सोमाः परावति विप्रकृष्टेतिदूरे देशे ये वा अर्वावति अन्तिके देशेइद्रार्थं सुन्विरे अभिषूयन्ते अभ्यषूयन्त । ये वा शर्यणावति कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञकं मधुरसयुक्तं सोमवत्सरोस्ति अदः अस्मिन्सरसि सुरसाः येसोमा इन्द्रायाभिषूयन्ते तेस्माकमभिमतफलं प्रयच्छन्तु । इति- वक्ष्यमाणेन स्ंबन्धः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः