मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६६, ऋक् ११

संहिता

अच्छा॒ कोशं॑ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे॑ अ॒व्यये॑ ।
अवा॑वशन्त धी॒तयः॑ ॥

पदपाठः

अच्छ॑ । कोश॑म् । म॒धु॒ऽश्चुत॑म् । असृ॑ग्रम् । वारे॑ । अ॒व्यये॑ ।
अवा॑वशन्त । धी॒तयः॑ ॥

सायणभाष्यम्

धारानिर्गमनप्रसंगादभिधीयते मधुश्चुतं मधुररसस्य च्यावयितारं क्षारयितारं कोशं द्रोणकलशं अच्छ अभिलक्ष्य अव्यये अविमये अविस्वभूते वा वारे वाले दशापवित्रे असृ- ग्रं सोमा ऋत्विग्भिः सृज्यन्ते । सृजेः कर्मणि तिङांतिङोभवन्तीति झेरमादेशः । किंच धी- तयः अंगुलिनामैतत् धयन्ति पिबन्ति आभिरिति अस्मदीयाअंगुलयः अवावशन्त तान् सोमान् पुनःपुनः मार्जनार्थं कामयन्ते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः