मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६७, ऋक् ३०

संहिता

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
आ॒खुं चि॑दे॒व दे॑व सोम ॥

पदपाठः

अ॒लाय्य॑स्य । प॒र॒शुः । न॒ना॒श॒ । तम् । आ । प॒व॒स्व॒ । दे॒व॒ । सो॒म॒ ।
आ॒खुम् । चि॒त् । ए॒व । दे॒व॒ । सो॒म॒ ॥

सायणभाष्यम्

अलाय्यस्य अर्तेरौणादिकआय्यप्रत्ययः कपिलकादित्वल्लत्वं अभिगमनशीलस्य शत्रोः परशुः छेदकः पवमानस्तमेवशत्रुं ननाश नाशयतु । अस्मानपापान् ततोहे देव दीप्यमान सोम आपव- स्व अस्मदाभिमुख्येन गच्छ । किंच हे देव द्योतमान स्तुत्य वा हे सोम आखुंचित् खनु अवदारणे स्र्वस्याहन्तारमपि तं शत्रुमेव बाधस्व नास्मानपापानिति ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८