मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७५, ऋक् १

संहिता

अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते ।
आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥

पदपाठः

अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । चनः॑ऽहितः । नामा॑नि । य॒ह्वः । अधि॑ । येषु॑ । वर्ध॑ते ।
आ । सूर्य॑स्य । बृ॒ह॒तः । बृ॒हन् । अधि॑ । रथ॑म् । विष्व॑ञ्चम् । अ॒रु॒ह॒त् । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

चनोहितः चनइत्यन्ननाम चायतेरसुनि चनइत्यौणादिकसूत्रेण निपातितः चनसेन्नाय हितः । यद्वा हितान्नः सोमः प्रियाणि जगतः प्रीणयितॄणि नामानि नमनशीलानि तान्युद- कान्यभीपवते अभितःकरोति येष्वन्तरिक्षस्थितेषूदकेषु यह्वोमहानयंसोमोधिवर्धते अधिकं- प्रवृद्धोभवति अपांमध्येसोमोवसति ततोबृहन् महान् सोमः बृहतोमहतः परिवृढस्यसूर्यस्य विष्वंचं विष्वग्गमनं अधि उपरिरथं विचक्षणः सर्वस्यविद्रष्टा सन् आरुहत् आरोहति अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतेइति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३