मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७५, ऋक् ३

संहिता

अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ ।
अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥

पदपाठः

अव॑ । द्यु॒ता॒नः । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । नृऽभिः॑ । ये॒मा॒नः । कोशे॑ । आ । हि॒र॒ण्यये॑ ।
अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । अधि॑ । त्रि॒ऽपृ॒ष्ठः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥

सायणभाष्यम्

द्युतानः द्युतदीप्तौ नृभिः कर्मनेतृभिर्ऋत्विग्भिः हिरण्यये हिरण्मये कोशॆ अधिष- वणचर्मणि तस्यहिरण्मयत्वं हिरण्यपाणिरभिषुणोतीति हिरण्यसंबन्धात् तादृशेकोशे येमा- नः छान्दसे कर्मणि लिटि कानचि रूपं नियम्यमानः सोमः ततः ऋतस्य सत्यभूतस्य यज्ञस्यदोहानादोग्धारः ऋत्विजईमेनं सोममभ्यनूषत अभिष्टुवन्ति । ग्रावाणोवत्सऋत्विजो- दुहन्तीति । तैत्तिरीयब्राह्मणे एषांदोग्धृत्वमभिहितं सोमः कलशान् द्रोणाभिधानान् प्रति- अवाचिक्रदत् अवक्रन्दति शब्दायते । ततः त्रिपृष्ठः त्रीणिसवनान्येव पृष्ठानि यस्य सतथो- क्तः त्रिषु सवनेषु सोमस्य विद्यमानत्वात् त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वँ । तादृशः सोमः उषसोधि यागाहनि विराजति अधिशीङ्स्थासामितिद्वितीया । तेषु अहःसु विशेषे- णदीप्यते । यद्वा राजतिरन्तर्णीतण्यर्थः अहानि प्रकाशयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३