मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७५, ऋक् ४

संहिता

अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचि॑ः ।
रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥

पदपाठः

अद्रि॑ऽभिः । सु॒तः । म॒तिऽभिः॑ । चनः॑ऽहितः । प्र॒ऽरो॒चय॑न् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ।
रोमा॑णि । अव्या॑ । स॒मया॑ । वि । धा॒व॒ति॒ । मधोः॑ । धारा॑ । पिन्व॑माना । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

मतिभिः । मनज्ञाने मंत्रेवृषेषपचनेतिक्तिन्नुदात्तः । स्तुतिभिरद्रिभिर्ग्रावभिश्च सुतोभिषु- तोचनोहितः चनसेन्नायहितः हितान्नोवा मातरा जगतोनिर्मात्र्यौ रोदसी द्यावापृथिव्यौ प्ररोचयन् स्वतेजसा प्रकाशयन् अतएव शुचिर्दीप्यमानः एवंविधः सोमः अव्यानि अवि- भवानि रोमाणि तैःकृतानिपवित्राणि समया अभितः समीपे विधावति विशेषेण रक्षति किंच पिन्वमाना अद्भिः सिच्यमाना मधोर्मदकरस्य सोमस्य धारा दिवेदिवे अन्वहं दीर्घ सत्रेषु पवित्राण्युभयतः पवते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३