मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७६, ऋक् ३

संहिता

इन्द्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श ।
प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥

पदपाठः

इन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ ।
प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥

सायणभाष्यम्

हे सोम पवमानः पूयमानस्त्वं तविष्यमाणो वर्धयिष्यमाणःसन् इन्द्रस्य जठरेषु ऊर्मिणा प्रभूत्याधारया विश जठरप्रदेशस्य बाहुल्यात् बहुवचनम् । नोस्मदर्थं विद्युदभ्रेव अभ्राणीव सा यथा दोग्धि अभ्राणि तद्वत् प्रपिन्व धुक्ष रोदसी द्यावापृथिव्यौ । किंच धिया कमर्णान इदानीं नेतिसंप्रत्यर्थे शश्वतः बहुनामैत् बहून् वाजान् अन्नानि उपसमीपे मासि निर्मासि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः