मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७७, ऋक् ४

संहिता

अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दु॑ः स॒त्राचा॒ मन॑सा पुरुष्टु॒तः ।
इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥

पदपाठः

अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः ।
इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥

सायणभाष्यम्

अयामिन्दुः सोमोनोस्मान् वनुष्यतोहन्तुमिच्छतः शत्रून् विद्वान् जानन् हन्तुं वनवत् हन्तु तान् । केनसाधनेन सत्राचा सहांचता मनसा कीदृशः पुरुष्टुतः बहुभिःस्तुतः यः सोमो इनस्येश्वरस्याग्नेः सदनेस्थाने भूमौ वेद्यांवा वर्तमानोगर्भमादधे धारयत्योषधीषु यश्चगवाम स्मदीयानां शत्रुभिरपहृतानामुरुब्जं प्रभूतानामपांपयसां जनकं व्रजमभ्यर्षति गच्छति सव नवदिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः