मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७९, ऋक् १

संहिता

अ॒चो॒दसो॑ नो धन्व॒न्त्विन्द॑व॒ः प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः ।
वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धियः॑ ॥

पदपाठः

अ॒चो॒दसः॑ । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । प्र । सु॒वा॒नासः॑ । बृ॒हत्ऽदि॑वेषु । हर॑यः ।
वि । च॒ । नश॑न् । नः॒ । इ॒षः । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । सनि॑षन्त । नः॒ । धियः॑ ॥

सायणभाष्यम्

अचोदसः अचोदनाः अनन्यप्रेरिताइन्दवः सोमाः नोस्माकं प्रधन्वंतु प्रगच्छन्तु धन्व- तिर्गतिकर्मा कुत्र बृहद्दिवेषु प्रभूतदीप्तिषु यागेषु निमित्तेषु अथवा बृहद्दिवकुलजेषु मध्ये । नइतिसंबन्धः । कीदृशाइन्दवः सुवानासः सूयमाना हरयोहरितवर्णाः । किंच नोस्मभ्यं येच इषोन्नस्यअरातयः अदातारः सन्ति तेच विनशन् विनश्यन्तु । तथा अर्यः अरयोपि नशन्त विनश्यन्तु सनिषंत संभजन्तुच नोधियोस्मदीयानि कर्माणि देवा अस्मत्प्रियभूतावा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः