मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ९

संहिता

अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः ।
राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥

पदपाठः

अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचत् । वि । दि॒वः । रो॒च॒ना । क॒विः ।
राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ । नृ॒ऽचक्ष॑सः ॥

सायणभाष्यम्

अद्गु उपरि अस्थात् अवस्थात् द्यां द्युलोकं वृषभोवर्षिता विचक्षणो विद्रष्टायं सोमः तथाकृत्वा दिवोद्युलोकसंबंधीनि रोचना रोचमानानि नक्षत्रादीनि व्यरूरुचत् विविधं रोचयति । कविः क्रान्तप्रज्ञः सन् राजासोमः पवित्रं दशापवित्रं अत्येति अतिक्रम्यगच्छति । रोरुवत् शब्दंकुर्वन् दिवोद्युलोकस्य पीयूषं सारं रसं नृचक्षसः नृणांद्रष्टारः सोमा दुहते स्रवन्ति स्वकीयंरसमान्तरिक्ष्यमुदकंवा दुहन्तीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११