मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ५

संहिता

अ॒स्य व्र॒ते स॒जोष॑सो॒ विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
स्पा॒र्हा भ॑वन्ति॒ रन्त॑यो जु॒षन्त॒ यत् ॥

पदपाठः

अ॒स्य । व्र॒ते । स॒ऽजोष॑सः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ ।
स्पा॒र्हाः । भ॒व॒न्ति॒ । रन्त॑यः । जु॒षन्त॑ । यत् ॥

सायणभाष्यम्

अद्रुहोद्रोहवर्जिताः विश्वे सर्वे देद्वासोदेवाः अस्य सोमस्य व्रते कर्मणि सजोषसः संग- ताः सन्तः स्पार्हाः स्पृहणीयाभवन्ति । रन्तयो रमणशीलाः देवाः सुतमेनं सोमं यद्यदि जुषन्त सेवन्ते तर्हि स्पृहणीया भवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः