मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०२, ऋक् ७

संहिता

स॒मी॒ची॒ने अ॒भि त्मना॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ ।
त॒न्वा॒ना य॒ज्ञमा॑नु॒षग्यद॑ञ्ज॒ते ॥

पदपाठः

स॒मी॒चीने इति॑ स॒म्ऽई॒ची॒ने । अ॒भि । त्मना॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ ।
त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥

सायणभाष्यम्

ससोमः समीचीने परस्परं संगते यह्वी महत्यौ ऋतस्य यज्ञस्य मातरा निर्मात्र्यौ द्यावापृथिव्यौ त्मना आत्मना स्वयमेव तदाभिगच्छति । यद्यदा यज्ञं तन्वानाः अध्वर्यव आनुषक् अनुषक्तं च वसतीवरीभिरंजते सोमं मिश्रयन्ति तदा स्वयमभिगच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः