अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत ।
गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥
अ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ ।
गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥
हे सोम वसुविदं धनस्य दातारं त्वा त्वामस्मभ्यं धनादिप्रदानार्थं वाणीः अस्मदीया- वाचो अभ्यनूषत अभिष्टुवन्ति नूस्तवने । वयं ते तव वर्णं आवरकं रसं गोभिर्गोविकारैः क्षीरादिभिः अभिवासयामसि अभिवासयामः अभितआच्छादयामः ॥ ४ ॥