सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् ।
अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥
सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् ।
अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥
हे सोम अस्मत् अस्मासु सनेमि पुराणनामैतत् पुराणं सख्यं कृधि कुरु । आ अपि- च अत्रिणमदनशीलं कंचिद्रक्षसं अपयुध्यस्व । कीदुशं अदेवं अदेवनशीलं द्वयुंद्वयवन्तं स- त्यानृतयुक्तंबाह्याभ्यन्तरमायायुक्तंवा । किंच नोस्माकमंहः पापंच अपयुयोधि संप्रहर युध्य तेर्बहुलंछन्दसीति शपःश्लुः वाछन्दसीति हेर्ङित्त्वाद्गुणः धलोपश्छान्दसः यौतेर्वाश्लौ पूर्व- वद्रूपं ॥ ६ ॥
तंवइति षळृचं द्वितीयंसूक्तं पर्वतनारदयोरार्षं अन्यत् पूर्ववत् । तंवइत्यनुक्रान्तम् । गतः सूक्तविनियोगः ।