मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०५, ऋक् ३

संहिता

अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ ।
अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥

पदपाठः

अ॒यम् । दक्षा॑य । साध॑नः । अ॒यम् । शर्धा॑य । वी॒तये॑ ।
अ॒यम् । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । सु॒तः ॥

सायणभाष्यम्

अयं सोमः दक्षाय बलाय वर्धनाय वा साधनः साधयिता भवति । तथा यं सोमः शर्धाय वेगार्थ वीतये देवानां भक्षणार्थंच भवति सुतः अभिषुतोयं सोमः देवेभ्यइन्द्रादि- भ्योमधुमत्तमः अतिशयेन माधुर्ययुक्तोभवति । अत्यन्तं मदकरोभवतीतिवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः