मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् २

संहिता

अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पवते सु॒तः ।
सोमो॒ जैत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥

पदपाठः

अ॒यम् । भरा॑य । सा॒न॒सिः । इन्द्रा॑य । प॒व॒ते॒ । सु॒तः ।
सोमः॑ । जैत्र॑स्य । चे॒त॒ति॒ । यथा॑ । वि॒दे ॥

सायणभाष्यम्

भराय संग्रामाय तदर्थं सानसिर्भजनीयः सुतोभिषुतोयं सोमः इन्द्रायेन्द्रार्थं पवते ग्रहा दिषु क्षरति । ततः सोमः जैत्रस्य क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । जयशीलमिन्द्रं चेतति जानाति यथा इन्दोविदे लोकैर्ज्ञायते तथा जानाति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः