मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ३

संहिता

अ॒स्येदिन्द्रो॒ मदे॒ष्वा ग्रा॒भं गृ॑भ्णीत सान॒सिम् ।
वज्रं॑ च॒ वृष॑णं भर॒त्सम॑प्सु॒जित् ॥

पदपाठः

अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । ग्रा॒भम् । गृ॒भ्णी॒त॒ । सा॒न॒सिम् ।
वज्र॑म् । च॒ । वृष॑णम् । भ॒र॒त् । सम् । अ॒प्सु॒ऽजित् ॥

सायणभाष्यम्

आअनन्तरं इन्द्रः अस्येत् अस्य सोमस्यैव मदेषु संजातेषु सानसिं सर्वैः संभजनीयं ग्राभं ग्राहं गृहीतव्यं धनुर्गृभ्णीत गृह्णाति हृग्रहोर्भइति भत्वम् । किंच अप्सुजित् उदका- र्थंवृत्रस्य जेता । यद्वा आपइत्यन्तरिक्षनाम अन्तरिक्षे अहिनामकस्य जेता इन्द्रः वृषणं वर्षितारं वज्रं च संभरत् संबिभर्तु बिभर्तेर्लेट्यडागमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः