मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ७

संहिता

पव॑स्व दे॒ववी॑तय॒ इन्दो॒ धारा॑भि॒रोज॑सा ।
आ क॒लशं॒ मधु॑मान्त्सोम नः सदः ॥

पदपाठः

पव॑स्व । दे॒वऽवी॑तये । इन्दो॒ इति॑ । धारा॑भिः । ओज॑सा ।
आ । क॒लश॑म् । मधु॑ऽमान् । सो॒म॒ । नः॒ । स॒दः॒ ॥

सायणभाष्यम्

हे इन्दो सोम देववीतये देवानां भक्षणार्थं ओजसा बलेन धाराभिरामीयाभिः पवस्व क्षर । हे सोम मधुमान् मदकररसवांस्त्वं नोस्मदीयं कलशं द्रोणाभिधानं आसदः । सदे- र्लुङि रूपम् । आसीद ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०