मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ८

संहिता

तव॑ द्र॒प्सा उ॑द॒प्रुत॒ इन्द्रं॒ मदा॑य वावृधुः ।
त्वां दे॒वासो॑ अ॒मृता॑य॒ कं प॑पुः ॥

पदपाठः

तव॑ । द्र॒प्साः । उ॒द॒ऽप्रुतः॑ । इन्द्र॑म् । मदा॑य । व॒वृ॒धुः॒ ।
त्वाम् । दे॒वासः॑ । अ॒मृता॑य । कम् । प॒पुः॒ ॥

सायणभाष्यम्

उदप्रुतः वसतीवर्याख्यमुदकं प्रति गच्छंतः यद्वा उदकस्य निर्गमयितारः तव स्वभूता- द्रप्साः द्रुतगामिनोरसाः मदाय मदार्थं इन्द्रं वावृधुर्वर्धयन्ति । ततः देवासोदेवाः इन्द्रादयः कं सुखकरं त्वां अमृताय अमरणार्थं पपुः पिबन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०