मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् ९

संहिता

आ नः॑ सुतास इन्दवः पुना॒ना धा॑वता र॒यिम् ।
वृ॒ष्टिद्या॑वो रीत्यापः स्व॒र्विदः॑ ॥

पदपाठः

आ । नः॒ । सु॒ता॒सः॒ । इ॒न्द॒वः॒ । पु॒ना॒नाः । धा॒व॒त॒ । र॒यिम् ।
वृ॒ष्टिऽद्या॑वः । री॒ति॒ऽआ॒पः॒ । स्वः॒ऽविदः॑ ॥

सायणभाष्यम्

हे सुतासः अभिषूयमाणाः हे इन्दवः दीप्ताः पात्रेषु क्षरन्तोवा हे रीत्यापः यैः पृथि वीं प्रति स्रवणशीलाआपः कृताः तादृशाः हे सोमाः पुनानाः पुयमानाः यूयं नोस्मभ्यं रयिं आधावत आगमयत । कीदृशाः वृष्टिद्यावः वृष्टभिर्द्यौः यैः क्रियते वृष्ट्यभिमुखद्युलो- कवन्तः स्वर्विदः सर्वस्य लंभकाः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०