मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् १०

संहिता

सोमः॑ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा॑वति ।
अग्रे॑ वा॒चः पव॑मान॒ः कनि॑क्रदत् ॥

पदपाठः

सोमः॑ । पु॒ना॒नः । ऊ॒र्मिणा॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ।
अग्रे॑ । वा॒चः । पव॑मानः । कनि॑क्रदत् ॥

सायणभाष्यम्

पुनानः पूयमानः सोमः ऊर्मिणा स्वीयया धारया अव्यः अवेर्वारं वालं पवित्रं विधा वति विविधं गच्छति । कीदृशः पवमानः पूतः वाचः स्तोत्रस्याग्रे कनिक्रदत् पुनः पुनः शब्दंकुर्वन् विधावंति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०