धी॒भिर्हि॑न्वन्ति वा॒जिनं॒ वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
अ॒भि त्रि॑पृ॒ष्ठं म॒तय॒ः सम॑स्वरन् ॥
धी॒भिः । हि॒न्व॒न्ति॒ । वा॒जिन॑म् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् ।
अ॒भि । त्रि॒ऽपृ॒ष्ठम् । म॒तयः॑ । सम् । अ॒स्व॒र॒न् ॥
वाजिनं बलवन्तं वननीये वसतीवर्याख्ये उदके क्रीळन्तं संक्रीडमानं अत्यविं अवि- शब्देन तद्रोमकृतं पवित्रमभिधीयते अत्गिक्रान्तपवित्रं सोमं ऋत्विजोधीभिः स्तुतिभिः हिन्वन्ति वर्धयन्ति । यद्वा धीभिर्वर्णलोपश्छान्दसः धीतिभिरंगुलीभिः हिन्वन्ति प्रेरयन्ति । हिगतौ वृद्धौचस्वादिः । किंच त्रिपृष्ठं त्रीणि पवित्राणि द्रोणकलशाधवनीयपूतभृदात्मकानि पात्राणि त्रीणि सवनानि वा स्पृशतीति सतथोक्तः तं सोमं मतयः स्तुतयः अभिसम- स्वरन् अभितः संस्तुवन्ति ॥ ११ ॥