मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् १२

संहिता

अस॑र्जि क॒लशाँ॑ अ॒भि मी॒ळ्हे सप्ति॒र्न वा॑ज॒युः ।
पु॒ना॒नो वाचं॑ ज॒नय॑न्नसिष्यदत् ॥

पदपाठः

अस॑र्जि । क॒लशा॑न् । अ॒भि । मी॒ळ्हे । सप्तिः॑ । न । वा॒ज॒ऽयुः ।
पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् ॥

सायणभाष्यम्

वाजयुः यजमानानामन्नमिच्छन् ससोमः कलशानभिलक्ष्य कलशेषु असर्जि सृज्यते । तत्र दृष्टान्तः—सप्तिर्न यथा अश्वोमीह्ळे संग्रामनामैतत् संग्रामे सृज्यतेतद्वत् । ततः पुनानः पूयमानः सोमः वाचं शब्दं जनयन् उत्पादयन् असिष्यदत् पात्रेषु स्यन्दते ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११