मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् १३

संहिता

पव॑ते हर्य॒तो हरि॒रति॒ ह्वरां॑सि॒ रंह्या॑ ।
अ॒भ्यर्ष॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यशः॑ ॥

पदपाठः

पव॑ते । ह॒र्य॒तः । हरिः॑ । अति॑ । ह्वरां॑सि । रंह्या॑ ।
अ॒भि॒ऽअर्ष॑न् । स्तो॒तृऽभ्यः॑ । वी॒रऽव॑त् । यशः॑ ॥

सायणभाष्यम्

हर्यतः स्पृहणीयः हरिर्हरितवर्णः सोमः रंह्या तृतीयाया आकारः साधुवेगेनह्वरांसि कुटिलानि अनृजूनि पवित्राणि अतिपवते अतीत्यगच्छति । किंकुर्वन् स्तोतृभ्यो वीरवत् पुत्रयुक्तं यशः अभ्यर्षन् अभिगमयन् पवते ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११