मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०६, ऋक् १४

संहिता

अ॒या प॑वस्व देव॒युर्मधो॒र्धारा॑ असृक्षत ।
रेभ॑न्प॒वित्रं॒ पर्ये॑षि वि॒श्वतः॑ ॥

पदपाठः

अ॒या । प॒व॒स्व॒ । दे॒व॒ऽयुः । मधोः॑ । धाराः॑ । अ॒सृ॒क्ष॒त॒ ।
रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ॥

सायणभाष्यम्

हे सोम देवयुर्देवान् कामयमानस्त्वं अया अनया धारया पवस्व क्षर । ततः मधोर्म- दकरस्य तव धाराआत्मीयाः असृक्षत सृज्यन्ते । अनन्तरं रेभन् शब्दायमानः पवित्रं विश्वतः पर्येषि सर्वतः परिगच्छसि ॥ १४ ॥

परीतइति षड्विंशत्यृचंचतुर्थं सूक्तम् । त्वंसोमासीत्यत्रउक्ताभरद्वाजकश्यपाद्याः सप्तर्षयः । आद्याबृहती द्वितीयासतोबृहती अयमेकः प्रगाथः परिसुवानइत्येषा तृतीया एकविंशत्यक्ष- रा भुरिक् विराट् द्विपदा नृभिर्येमानइति षोडशो विंशत्यक्षराद्विपदाविराट् चतुर्थ्यादिद्वौ प्र- गाथौ दशम्यादित्रयः सप्तदश्यादिपंचप्रगाथाः पवमानसोमोदवता । तथाचानुक्रम्यते—परितः षड्विंशतिः सप्तऋषयः प्रागाथं तृतीयाषोडश्यौ द्विपदे अष्टम्याद्येबृहत्याविति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११