मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १११, ऋक् १

संहिता

अ॒या रु॒चा हरि॑ण्या पुना॒नो विश्वा॒ द्वेषां॑सि तरति स्व॒युग्व॑भि॒ः सूरो॒ न स्व॒युग्व॑भिः ।
धारा॑ सु॒तस्य॑ रोचते पुना॒नो अ॑रु॒षो हरि॑ः ।
विश्वा॒ यद्रू॒पा प॑रि॒यात्यृक्व॑भिः स॒प्तास्ये॑भि॒रृक्व॑भिः ॥

पदपाठः

अ॒या । रु॒चा । हरि॑ण्या । पु॒ना॒नः । विश्वा॑ । द्वेषां॑सि । त॒र॒ति॒ । स्व॒युग्व॑ऽभिः । सूरः॑ । न । स्व॒युग्व॑ऽभिः ।
धारा॑ । सु॒तस्य॑ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः॑ ।
विश्वा॑ । यत् । रू॒पा । प॒रि॒ऽयाति॑ । ऋक्व॑ऽभिः । स॒प्तऽआ॑स्येभिः । ऋक्व॑ऽभिः ॥

सायणभाष्यम्

पुनानः पूयमानः सोमः हरिण्या हरितवर्णया अया अनया रुचा रोचमानया धार- या विश्वा सर्वाणि द्वेषांसि द्वेष्टृणि रक्षांसि तरति विनाशयति । तत्र दृष्टान्तः—सूरोन यथा सूर्यः स्वयुग्वभिः स्वयं युक्तैः रश्मिभिस्तमांसि हिनस्ति तद्वत् स्वयुग्वभिरिति द्विरु- क्तिरादरार्था । यद्वा धारया युक्तः सोमः स्वीयैर्युक्तैस्तेजोभिः रक्षांसि तरति तस्य सुतस्या भिषुतस्य सोमस्य धारा रोचते दीप्यते । पुनानः पूयमानः हरिर्हरितवर्णः सोमः अरुषः आरोचमानोभवति यत् यः सोमः सप्तास्येभिः रसहरणशीलास्यैः ऋक्वभिः स्तुतिमद्भिः ऋक्वभिस्तेजोभिः विश्वा विश्वानि व्याप्तानि रूपा रूपाणि नक्षत्राणि परियाति गच्छति व्याप्नोति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४