मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११२, ऋक् ४

संहिता

अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिणः॑ ।
शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

पदपाठः

अश्वः॑ । वोळ्हा॑ । सु॒खम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ ।
शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

सायणभाष्यम्

वोह्ळा लक्षं देशं प्रापयन्नश्वः सुखं कल्याणं रथमिच्छति उपमंत्रिणः उपमंत्रवन्तो नर्मसचिवाः हसनां उपहसनां वाचमिच्छन्ति तथा शेपः । शेपोवैतसइतिपुंस्प्रजननस्येति- यास्कः । यथा शेपः रोमण्वन्तौ भेदाविच्छति । मंडूकः वारित् इदवधारणे उदकमेवेच्छ- ति तथा हं त्वत् परिस्रवणमिच्छामि तस्मादिन्द्रायेन्दोपरिस्रवेति ॥ ४ ॥

शर्यणावतीत्येकादशर्चं दशमं सूक्तं मारीचस्य कश्यपस्यार्षं पूर्वत्रहीत्युक्तत्वात् इदमु- त्तरंच पांक्तं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—शर्यणावत्येकादशकाश्यपइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५