इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि ।
चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥
इ॒नः । रा॒ज॒न् । अ॒र॒तिः । सम्ऽइ॑द्धः । रौद्रः॑ । दक्षा॑य । सु॒सु॒ऽमान् । अ॒द॒र्शि॒ ।
चि॒कित् । वि । भा॒ति॒ । भा॒सा । बृ॒ह॒ता । असि॑क्नीम् । ए॒ति॒ । रुश॑तीम् । अ॒प॒ऽअज॑न् ॥
हे राजन् दीप्यमानाग्ने त्वं इनः ईश्वरः सर्वस्य भवसि । अथपरोक्षः अरतिः हविरा- दाय देवान् प्रति गन्ता समिद्धः संदीप्तः रौद्रः शत्रूणां भयंकरः सुषुमान् ओषध्यात्मना- स्थितोंशुः सुष्ठुसूयते इतिसुषुः सोमः तेन तद्वान् शोभनप्रसवोवा सोग्निः दक्षाय यजमाना- नां धनादिवृध्यर्थं वा अदर्शि सर्वैर्दृश्यते । किंच चिकित् सर्वं जानानोग्निर्विभाति विशेषे- ण दीप्यते तथा बृहता महता भासा तेजसा ज्वालालक्षणेन असिक्नीं रात्रिं एति सायं होमसिध्यर्थमेति गच्छति । किं कुर्वन् रुशतीं श्वेतवर्णां दीप्तिं अपाजन् अपगमयन् रात्रिं गच्छति सामर्थ्यात् रात्रिं परित्यजन् उषसं प्रातर्होमसिध्यर्थं गच्छतीत्यर्थोलभ्यते ॥ १ ॥