मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् ४

संहिता

अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑ः शि॒वस्य॑ ।
ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥

पदपाठः

अ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ ।
ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥

सायणभाष्यम्

बृहतोमहतोस्याग्नेः संबन्धिनइन्धानाः दीप्यमानायामासः यान्ति गच्छन्तीति यामार- श्मयः वग्नून् स्तुतिकारिणोजनान् नबाधन्ते । किंच सख्युः स्तुत्यस्तोतृयष्टृयष्तव्यलक्षणेन सख्येन सखिभूतस्य शिवस्य कल्याणस्य भक्तनां सुखकरस्य ईड्यस्य स्तोतव्यस्य वृष्णः कामानां वर्षितुः बृहतोमहतः स्वासः शोभनास्याः अस्याग्नेः स्वभूताअक्तवः तमांसि अं- जन्तः अपगमयन्तः आहुतिभिः संगतावा भामासः भामक्रोधे तीक्ष्णा अप्रसह्या रश्मयो- यामन् याति देवान् प्रति तर्पणाय यांति देवाएतं प्रत्यंगभावायेति यामोयज्ञः तस्मिन् चिकित्रे सर्वतोजज्ञिरे प्रथिताअभूवन् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१