मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् ६

संहिता

अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भि॑ः ।
प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥

पदपाठः

अ॒स्य । शुष्मा॑सः । द॒दृ॒शा॒नऽप॑वेः । जेह॑मानस्य । स्व॒न॒य॒न् । नि॒युत्ऽभिः॑ ।
प्र॒त्नेभिः॑ । यः । रुश॑त्ऽभिः । दे॒वऽत॑मः । वि । रेभ॑त्ऽभिः । अ॒र॒तिः । भाति॑ । विऽभ्वा॑ ॥

सायणभाष्यम्

ददृशानपवेः दर्शनीयज्वालाग्नेः यद्वा पविर्वज्रआयुधं दृश्यमानायुधस्य जेहमानस्य जेह- तिर्गतिकर्मा हविरादाय देवान् प्रति गच्छतः अस्याग्नेः स्वभूताः शुष्मासः शोषकाः नियु- द्धिर्नियुतो वायोरिति वायोरश्वानियुतः तद्युक्तैर्वायुभिः संयुक्तारश्मयः स्वनयन् शब्दायन्ते । किंच देवतमः देवानां मुख्यः अरतिः गन्ता विश्वा विभवनशीलोमहान् योग्निः प्रत्नेभिः पुराणैः रुशद्भिः श्वेतवर्णैः रेभद्भिः शब्दायमानैस्तेजोभिः विभाति विविधं दीप्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१