मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् ४

संहिता

ऋ॒तस्य॒ हि व॑र्त॒नय॒ः सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिव॒ः सच॑न्ते ।
अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥

पदपाठः

ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते ।
अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥

सायणभाष्यम्

ऋतस्य यज्ञस्य वर्तनयः प्रवर्तकाइषअभिलषितानीच्छन्तः प्रदिवः पुरातनाऋत्विग्य- जमानाः सुजातमाधानकाले सुष्ठूत्पन्नमग्निं वाजाय बलार्थं अन्नार्थंवा सचन्तेहि सेवन्ते- खलु । अपिच वावसाने सर्वस्य जगतआच्छादयित्र्यौ रोदसी द्यावापृथिव्यौ अधीवासं ओषधिनक्षत्राद्यात्मना निवसन्तं यद्वा अधिरुपर्यर्थे त्रयाणां लोकानामुपरि अग्निविद्युदा- दित्यात्मना निवसन्तमग्निं मधूनामुदकानां जन्यत्वेन संबन्धिभिर्घृतैरन्नैः पुरोडाशादिभिश्च वावृधते वर्धयांचक्रतुः वर्धयतः तस्माद्वयमपि तमग्निमभिष्टुम इत्यभिप्रायः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३