मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् ७

संहिता

अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ ।
अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥

पदपाठः

अस॑त् । च॒ । सत् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ ।
अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥

सायणभाष्यम्

असदव्याकृतं सच्चव्याकृतं असदेवेदमग्रआसीत् तत्सदासीत् तत्समभवदिति श्रुतेः । सद- सदात्मकं जगत्सर्वं परमे उत्तमे ज्ञानसहिते व्योमन् व्योमनि कारणात्मनि जातमभूत्तदा अदितेः पृथिव्याउपस्थे उपस्थाने समीपे दक्षस्य प्रजापतेः यद्वा दक्षस्य सत्रेधात्मानं बिभ जतादित्यंतृतीयंवायुंतृतीयमितिश्रुतेः । तृतीयस्य द्युलोकस्याधिष्ठातृत्वादादित्यस्य जन्मन् जन्मनि ततएवं सति मनुष्यस्य सृष्टिक्रमात् पूर्वं अग्निर्ह अग्निरेव ऋतस्य कर्मफलस्य भोक्तॄणां नोस्माकं प्रथमजाः प्रथमजातः समुत्पन्नः तेजोरसोनिरवर्तताग्निरितिश्रवणात् । पश्चात्तत्प्रकरणे ततोमनुष्याअजायन्तेति प्रथमतएव मनुष्यसृष्टेरभिहितत्वात् अनन्तरं पूर्वे उत्तरसृष्टिमपेक्ष्य पूर्वत्वं आयुनि काले अयमग्निरेव वृषभश्चासीत् धेनुश्चाभवत् स्त्रीपुंसवत् स्त्रीपुंसात्मकोभवदित्यर्थः ॥ ७ ॥

वेदार्थस्यप्रकाशॆन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये सप्तमाष्टके पंचमोध्यायः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३